संस्कृतभाषायाः साहित्यराशौ काव्यानि कविभिः, दार्शनिकैः, राजभिः, वैदिकाचारनिष्ठैः, रसिकैः इत्येवं सर्वैः अविप्रतिपत्त्या आद्रियन्ते । संस्कृतभाषाप्रवेशोऽपि काव्याध्ययनद्वारा एव क्रियते परम्परायाम् । प्रतिपाद्यवस्तुधर्मानुसारेण वैविध्यं भजन्तः तत्रत्याः प्रयोगाः भाषायाः सुन्दरं ललितं स्वरसं च रूपम् अध्येतॄणां परिचाययन्तीति तत्र कारणम् । इदं प्रयोजनं छात्राणाम् भाषायां व्युत्पित्सूनां भवति । अपरं च, अव्यहितान्दजनकतया काव्यानाम् उपादेयत्वं बुधैरुपगीयत एव । तदेवम् अनेकैः कारणैः उपादेयस्य कव्यस्य अध्ययनं B.A. संस्कृतम् इत्येतत्कार्यक्रमाङ्गतया छात्राणामत्र विधीयते ।

छात्राणां भाषाप्रवेशं मनसि निधाय सुगमाः स्वरसाश्च गद्यरूपाः पद्यरूपाश्च गन्थभागाः अत्र पाठ्यतया निवेशिताः । ततः काव्यशोभाकराणाम् अलङ्काराणामपि कतिपयानां परिचयः अत्र कार्यते येन छात्राणां काव्यतत्त्वावगमने पदन्यासो भविष्यति ।

 


BASans_Sem1-3_Kavyam_alankarashca (1).pdfBASans_Sem1-3_Kavyam_alankarashca (1).pdf