साधुशब्दानां प्रतिपत्तये व्याकरणशास्त्रमधीयते । शब्दानां चानन्तत्वात् प्रतिपदं तेषां ज्ञानं न संभवतीति हेतोः लाघवेन तेषां प्रतिपादनाय प्रकृतिप्रत्ययादिविभागकल्पनया, सामान्यविशेषवद्भिश्च लक्षणैः भगवान् पाणिनिः शब्दानामनुशासनं प्रणिनाय । अस्मिन् शास्त्रे भगवता प्रकृतिप्रत्ययादयः अवयवाः उपदिश्यन्ते, तेषां योजनायां कार्याण्यपि । एवं सूत्रकारोपदिष्टानां प्रकृतिप्रत्ययादीनां योजनायां, शास्त्रविहितेषु च कार्येषु कृतेषु परिनिष्ठितं रूपं सिद्ध्यति तन्नूनं लोके शिष्टैः प्रयुज्यमानं साधुशब्दरूपं भवति । सोऽयं साधुशब्दनिष्पादनक्रमः शब्दसिद्धिप्रक्रिया इत्युच्यते । एतां प्रक्रियामनुसृत्य वैयाकरणैः रूपं निष्पाद्य तत् साध्विति ज्ञातव्यम् ।

तदेवं साधुशब्दरूपप्रतिपत्तौ साधनभूतानां पाणिनीयसूत्राणां बहवो व्याख्याग्रन्था विरचिताः सन्ति । तत्र सूत्रार्थः, उदाहरणं, प्रत्युदाहरणम् इत्यादिकं प्रदर्श्यते । सूत्रेषु तदर्थेषु च ज्ञातेष्वपि न तावन्मात्रेण साधुशब्दरूपाणां निष्पादनं सुकरं भवति । तत्र सूत्रप्रवृत्तिक्रमः, विरोधे सति बलाबलनिर्णयः इत्यादिकस्य निर्णयाय बह्वीनां परिभाषाणां ज्ञानमप्यपेक्ष्यते । उचिते स्थले उचितायाः परिभाषायाः प्रवृत्तिरपि सूत्रार्थमात्रबोधेन न सिद्ध्यति ।

सर्वेषामेतेषां क्लेशानां परिहाराय प्रक्रियाग्रन्थाः विरचिताः । तत्र कस्यचित् शब्दरूपस्य सिद्धौ क्रमेण सूत्राणां प्राप्तिः प्रदर्श्यते, सति विरोधे परिभाषादिभिः तस्य निवारणं क्रियते, सूत्रवार्तिकभाष्यादिप्रमाणग्रन्थपर्यालोचनया च इष्टस्य साधुरूपस्य साधनोपायः प्रदर्श्यते । एतादृशेषु प्रक्रियाग्रन्थेषु मूर्धन्यः महावैयाकरणेन भट्टोजिदीक्षितेन विरचितः सिद्धान्तकौमुदीनामा ग्रन्थः भारतदेशे वैयाकरणैः महता आदरेण अधीयते ।

अस्माकं विश्वविद्यालये छात्राणां विशेषेण व्याकरणशास्त्रमध्येतुमिच्छतां कृते अयं पाठ्यक्रमो निर्मितः । अत्र सिद्धान्तकौमुदीमनुसृत्य शास्त्रीयं क्रमं चाश्रित्य  सुबन्तप्रक्रिया बोध्यते । तत्रापि अकारान्तादिक्रमेण प्रधानानां शब्दरूपाणां सिद्धिः ग्रन्थानुसारेण बोधयिष्यते । अनेन क्रमेण अधीत्य व्युत्पन्नानां छात्राणामवशिष्टानां भागानां स्वयमध्ययने सामर्थ्यं भविष्यति।


सुबन्तप्रक्रिया - Course outline.docxसुबन्तप्रक्रिया - Course outline.docx