संस्कृतभाषायाः स्वरूपस्य ज्ञानार्थं शास्त्रग्रन्थानामिव काव्यग्रन्थानामपि अध्ययनम् अत्यावश्यकम् । शास्त्रे हि स्वविषयप्रतिपादनाय केवलाः तदुपयोगिनः शब्दा प्रयोगाश्च आश्रीयन्ते, काव्ये पुनः सकलं जगत् वर्णनाविषय इति तत्प्रतिपादनाय शब्दाः प्रयोगाश्च विविधाः भवन्तीति भाषाशिक्षणार्थं काव्यम् प्रशस्ततर उपायो भवति ।
तत्र आद्ये सत्रे पद्यकाव्यं बोधितमिति कारणतः प्रकृते सत्रे भोजराजविरचितं चम्पूरामायणं नाम काव्यं योजितमस्ति । चम्पूकाव्यं हि गद्यपद्योभयमयं भवति । तत्र पद्यबन्धस्येव गद्यगतेरपि परिचयः भविष्यति । चम्पूरामायणं च चम्पूकाव्येषु रसोदारतया अभ्यर्हिततमं मन्यन्ते विद्वांसः । अतोऽत्र अस्य ग्रन्थस्य बालकाण्डः पठ्यक्रमे योजितः ।- Teacher: Nagendra Pavana RN