प्रस्थानत्रय्यामन्यतमं  प्रस्थानं  वर्तते  स्मृतिप्रस्थानम्। तच्च स्मृतिप्रस्थानं भागवगीता वर्तते। इयञ्च गीता अर्जुनं निमित्तीकृत्य सर्वजनसमुद्धरणाय भगवतोपदिष्टा समस्तवेदार्थसारसङ्ग्रहभूताऽपि विशिष्यवेदान्तार्थप्रधाना वर्तते इति विविधप्रमाणवचनैरवगम्यते।अस्योपरि श्रीमद्भगवत्पादशङ्कराचार्याणां भाष्यं यथावत् वेदान्तार्थावबोधकं राराजते दर्शनजगति। आनन्दगिर्याचार्यैस्तु ग्रन्थोऽयं त्रिषु काण्डेषु विभक्त:। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति, मध्यमकाण्डं तत्पदार्थं विषयीकरोति, अन्तिमषट्कं तु पदार्थयोरैक्यं वाक्यार्थमधिकरोति। अत्र द्वितीयवर्षस्य पाठ्यक्रमे चतुर्थे सत्रे ग्रन्थस्य चरमषट्कं पाठ्यत्वेन  निर्धारितम्।

श्रीमद्भगवद्गीताभाष्यम्-३.pdfश्रीमद्भगवद्गीताभाष्यम्-३.pdf