पाणिनीयव्याकरणस्य प्रधानमुद्देश्यम् अस्ति साधुशब्दानाम् अन्वाख्यानम् । तदेतत् पाणिनिः उपचतुस्सहस्रसूत्रैः गुम्फितेन अष्टाध्यायीगतप्रक्रियाविज्ञानेन प्रतिपादयति । साधुशब्दज्ञाने प्रक्रियायाः ज्ञानमत्यावश्यकम् । प्रक्रियाज्ञानादृते प्रयोगज्ञानमात्रं न किञ्चित् प्रयोगं जनयति । तदाह भगवान् भाष्यकारः – ज्ञानपूर्वके प्रयोगे धर्मः । सूत्राणां क्रमस्य वैज्ञानिकता पाणिनीयपरम्परायाः चिरस्थायित्वे मूलम् । अपि चोक्तम् आचार्याभिः पुष्पादीक्षितवार्याभिः -
पाणिनिः क्रम एवास्ति क्रम एव तपःफलम् ।
क्रमहानेः परा हानिः शाब्दिकस्य न विद्यते ॥
प्रकृतं
संस्कृताध्ययनक्षेत्रे व्याकरणाध्ययनपरम्परायाः द्वौ पन्थानौ दृश्येते । एका परम्परा
सा यत्र
पाणिनिक्रममाश्रित्य सूत्राणां तदर्थानां च अध्ययनं क्रियते । अस्यां परम्परायाम्
आदौ अष्टाध्यायी, ततः काशिकामहाभाष्यादीनामध्ययनं क्रियते ।
अन्या परम्परा अस्ति प्रक्रियाध्ययनपरम्परा । अस्यां परम्परायां बहवः विद्वांसः श्रममकुर्वन् बहून् ग्रन्थान् च व्यरीरचन् । येषु सिद्धान्तकौमुदी, पौष्पीप्रक्रिया प्रकृताध्ययनपरम्परायां उत्कर्षं स्थानम् अलङ्कुरुतः । सिद्धान्तकौमुदी भाष्यगत-सिद्धान्तबोधनपुरस्सरं प्रक्रियां बोधयति । तस्माद् अस्य ग्रन्थस्य अध्ययने कालः अधिकः अपेक्ष्यते । संस्कृतज्ञः अल्पेन कालेन तिङन्तप्रक्रियाज्ञानं प्राप्नुयात् इति धिया पौष्पपद्धत्यनुसारिणी तिङन्तप्रक्रिया पाठ्यक्रमे संयोजिता । अनेन मार्गेण छात्रः षट्सु मासेषु तिङन्तप्रक्रियायां (सिद्धान्तकौमुद्याः तृतीयो भागः सम्पूर्णः अत्र पूरयिष्यते) सामर्थ्यं सम्पादयिष्यति ।
- Teacher: Vinayak Rajat Bhat