काव्याध्ययनस्य प्रयोजनं बहुविधम् इति सर्वेषाम् विदितम् एव। रसानन्दश्चास्य परमं प्रयोजनम्। कापि भाषा ज्ञाता चेदपि तद्व्यवहृतौ माधुर्यं स्वारस्यम् औचित्यविवेकश्च तत्काव्याध्ययनेनैव सिद्ध्यति इति अनुभवः प्रायः सर्वेषां विपश्चिताम्। यतो हि भूयांसो वाग्विन्यासादयो विशेषाः काव्यैरेव वेत्तुं शक्याः। तदिदं काव्याध्ययनं भाषाप्रपञ्चस्यापि द्वारम्। यदि कश्चन काव्यभागः प्रतिपदं प्रकृतिप्रत्ययविवेकेन सन्धिसमासादिचिन्तनेन च सहितम् अधीयेत तर्हि भाषा सम्यग् अधिगता भविष्यति। अत एव शतश्लोकेन पण्डितः इत्युक्तिः प्रथतेतमाम्। संस्कृतिसमुदाचारादयोऽपि काव्येभ्यो विदिता भवन्ति। तदेतैः हेतुभिः सर्वविधोऽपि जनः कांश्चन काव्यभागान् पिपठिषति।

कालिदासीया काव्यसंस्कृतिः अतितमां विशिष्टा वाचाम् अगोचरश्च। विशिष्य रघुवंशस्य द्वितीयः सर्गः भूयसीभिः वाग्विच्छित्तिभिः अलङ्कृतिभिः अर्थगाम्भीर्येण च समुज्ज्वलो वरीवर्ति। तस्मात् स काव्यभागः अत्र उपात्तो वर्तते। अत्र हि तत्रत्यं प्रतिपद्यम् अन्वयक्रम-व्याकरणविशेष-अलङ्कारादिस्वारस्यानुसन्धानैः सहितम् अध्यापयिष्यते।

संस्कृतभाषा - I.pdfसंस्कृतभाषा - I.pdf