व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र स्त्रीप्रत्ययप्रकरणम्, कारकप्रकरणम्, समासप्रकरणानि,  एकशेषप्रकरणम्, सर्वसमासशेषप्रकरणम्, समासान्तप्रकरणम्, अलुक्समासप्रकरणम्, समासाश्रयविधिप्रकरणम् इत्येते भागाः अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Siddāntakaumudī - 3_MAS.pdfSiddāntakaumudī - 3_MAS.pdf