काव्याध्ययनं भाषाध्ययनस्य द्वारमित्येतत् सर्वसम्मतम् । तदुक्तं ‘शतश्लोकी पण्डित’ इति । यदि कश्चन काव्यभागः सव्याख्यान अधीयेत तर्हि संस्कृतभाषा सम्यग् अधिगता भविष्यति । सरलाः बहलाः काव्यभागाः BA Sanskrit कार्यक्रमस्य आद्येषु सत्रेषु अधीताः। अतः कस्यचित् प्रौढकाव्यस्यापि सव्याख्यानमध्यनमवश्यमिति धिया शिशुपालवधकाव्यमपि कार्यक्रमेस्मिन् योजितमस्ति । महामतिमता माघेन प्रणीतेऽस्मिन् विंशतिसर्गात्मके महाकाव्ये वीररसः प्रधानतां शृङ्गारादयोऽन्ये रसाः अङ्गतां च भजन्ते । ‘नवसर्गगते माघे नवशब्दो न विद्यते’ इत्येषा प्रथितोक्तिः अस्मिन् काव्ये स्थिताम् अतुलितां शब्दसम्पत्तिं विद्योतयति नानाविधेषु वर्णनेषु, अलङ्कारेषु वृत्तवैविध्ये, अर्थगौरवे, पदविन्यासे, चित्रबन्धे चैवं सर्वेषु काव्याङ्गेषु अन्यादृशम् अस्य पटीयस्त्वम् । सोऽयं माघः स्वकाले प्रसिद्धिमापन्नं भारविं विजिगीषुः काव्यमिदं प्रणिनाय तत्र साफल्यं च अवाप इति वेदयति “उदिते तु पुनर्माघे भारवेर्भा रवेरिव” इत्येषा प्रसिद्धा भणितिः ।

काव्यस्यास्य व्याख्यासु प्रथिता भवति मल्लिनाथसूरिविरचिता सर्वङ्कषा व्याख्या । अतः अनया व्याख्यया सहितः काव्यस्य सम्पूर्णः प्रथमः सर्गः अस्मिन् पत्रे अध्यापयिष्यते । तदनेन अध्ययनेन अन्तेवासिनः कस्यापि शास्त्रस्य काव्यस्य वा अत्यावश्यके सव्याख्ये अध्ययने अनुभवं निपुणतां च सम्पादयिष्यन्ति ।    

Shishupalavadham_Course_Outline_2021.pdfShishupalavadham_Course_Outline_2021.pdf