काव्याध्ययनं बहुप्रयोजनकम्। विशिष्य, इदं भाषाज्ञानस्य द्वारम्। यदि कश्चन काव्यभागः प्रतिपदं प्रकृतिप्रत्ययविवेकेन सन्धिसमासादिचिन्तनेन च सहितम् अधीयेत तर्हि भाषा सम्यग् अधिगता भविष्यति। अत एव शतश्लोकेन पण्डितः इत्युक्तिः प्रथतेतमाम्। तदेतन्मनसि निधाय अस्मिन् BA (Sanskrit) पाठ्यक्रमे आदौ काव्याध्ययनं परिकल्पितमस्ति।
काव्यं तावद् दृश्यं श्रव्यं चेति द्विविधम्। तत्र श्रव्यकाव्यं पृथगेव अधीतमस्ति पूर्वस्मिन् सत्रे। तदत्र प्रसक्तं दृश्यकाव्यम्। दृश्यकाव्येषु कालिदासमहाकवेः अभिज्ञानशाकुन्तलं प्रथतेतमाम्। तस्मात् तस्य नाटकस्य आद्याः पञ्च अङ्काः अस्मिन् पत्रे पाठयिष्यन्ते। रसभावादीनि नाट्याङ्गान्यपि यथाप्रसङ्गं परिचाययिष्यन्ते। अन्ये अङ्काः स्वाध्यायेन यथा अधिगताः स्युः तथा व्यवस्था परिकल्पयिष्यते।
छन्दोविषयेऽपि विशिष्टमवधानं प्रकल्पयिष्यते पत्रेऽस्मिन्। छन्दोविषयकं ज्ञानम् अतितमाम् आवश्यकम्, यतः काव्येषु शास्त्रग्रन्थेषु च तेषामस्ति भूयिष्ठः प्रयोगः। अतः इन्द्रवज्रादीनां प्रसिद्धानाम् उपत्रिंशानां वृत्तानाम् अभिज्ञाने यथा छात्राः समर्थाः भवेयुः तथात्र यत्नो विधास्यते।
- Teacher: Anil Narayanan N
- Teacher: Ramakrishna Pejathaya