साहित्यशास्त्रग्रन्थेषु नैके ग्रन्थाः विद्यन्ते, यत्र काव्यलक्षणादिकं पठ्यते । एतेषु ग्रन्थेषु कविराजविश्वनाथप्रणीतः साहित्यदर्पणः अन्यतमः  । दशसु परिच्छेदेषु विभक्तोऽयं ग्रन्थः अत्यन्तं सरलया शैल्या निरूपितः । अस्य ग्रन्थस्य द्वारा प्राथमिकस्तरे काव्यसिद्धान्तानां परिचयकरणम् अस्य पाठ्यक्रमस्य लक्ष्यम् ।