व्याकरणशास्त्रं सर्वशास्त्रोपकारकम् इति तत्त्वं सुदृढीकुर्वच्चिन्मयविश्वविद्यापीठं स्नातकस्तरे व्याकरणशास्त्रबोधनमत्यावश्यकमिति कृत्वा प्रधानपत्रत्वेन तद्बोधयति । व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नेभ्यः स्थानेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा शब्दसिद्धिप्रक्रिया वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता ।

इमां पद्धतिम् आश्रित्य अमुष्मिन् पाठ्यक्रमे संज्ञाप्रकरणतः पञ्चसन्ध्यन्तो भागः पाठयिष्यते । अयं पाठ्यक्रमः प्राधान्येन सिद्धान्तकौमुद्याधारेण प्रवर्तते।