व्याकरणशास्त्रं सर्वशास्त्रोपकारकम् इति तत्त्वं सुदृढीकुर्वच्चिन्मयविश्वविद्यापीठं स्नातकस्तरे व्याकरणशास्त्रबोधनमत्यावश्यकमिति कृत्वा प्रधानपत्रत्वेन तद्बोधयति । व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नेभ्यः स्थानेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा शब्दसिद्धिप्रक्रिया प्रक्रियाप्रधानैः सिद्धान्तकौमुद्यादिभिः ग्रन्थैः सरलीकृता ।

इमां पद्धतिम् आश्रित्य अमुष्मिन् पाठ्यक्रमे अजन्तपुंलिङ्गप्रकरणात् हलन्तनपुंसकलिङ्गो भागः पाठयिष्यते । अयं पाठ्यक्रमः प्राधान्येन वैयाकरणसिद्धान्तकौमुद्याधारेण प्रवर्तते।


BAS_SK1_ELECTIVE.pdfBAS_SK1_ELECTIVE.pdf