प्राचीनेषु शास्त्रग्रन्थेषु काव्यग्रन्थेषु विविधाः कदाचिददृष्टपूर्वाः च प्रयोगाः गोचरीभवन्ति येषाम् अवगमनार्थं भाषायाः विशिष्टं ज्ञानमपेक्षितं भवति । तत्रापि कारकज्ञानं सकलभाषाज्ञानव्यापारे प्रधानभूतं भवति, सकलवाक्यस्वरूपस्य तदायत्तत्वात् । कारकज्ञानसहकारेणैव हि वाक्येषु सुबन्तानां, तिङन्तानां च पदानां प्रयोगः यथायथं कर्तुम् अवगन्तुं च शक्यते । कारकाणां विवक्षाधीनतया अनियतत्वमपरं क्लेशं जनयति ग्रन्थाध्ययने प्रवृत्तानाम् अनधीतिनाम् ।

तदनु समासास्तु संक्षेपेण अर्थप्रतिपादकाः वैचित्र्यमावहन्तः प्रयोक्तृभिः बहुधा आदृताः सन्ति । अत एव आ वाल्मीकेः प्रयोगेभ्यः तेषां विशिष्टः स्वरसः च प्रयोगः सर्वेषु प्रधानेषु ग्रन्थेषु विविधाः चमत्कारकाः समासप्रयोगाः समुपदृश्यन्ते । तत्रापि प्रौढानां गद्यप्रबन्धानां न्यायादीनां च शास्त्राणां च अध्ययने करणीये समासस्य सम्यग्ज्ञानं विना नान्या गतिरस्ति ।

तदेवं MA इत्येतत्पाठ्यक्रममनुसृत्य अधीयानानां छात्राणां कृते ग्रन्थाध्ययनसौकर्यसम्पादकः एषः पाठ्यक्रमः विनिर्मितः वर्तते । अत्र उक्तैः व्याकरणांशैः सह तस्य तस्य भागस्य सम्यगवगमनाय अपेक्षितां ग्रन्थभागाः अपि अध्येयतया निवेशिताः सन्ति ।


Kāraka_evam_Samāsa_MA_1.pdfKāraka_evam_Samāsa_MA_1.pdf