Offered by: School of Vedic Knowledge Systems

Specialization: Advaita-Vedanta

Duration: Five years (Ten Semesters)

Eligibility: Students who have passed Prak-Shastri, Uttara-Madhyama, Sahitya-pravesha and any of the other recognized examinations equivalent to Class 12 are eligible for this program. They will also have to pass the entrance examination conducted by Chinmaya Vishwavidyapeeth.

Campus: Chinmaya Eswar Gurukula

सूचना – प्रवेशम् इच्छन्तः छात्राः अधः दत्तम् आवेदनापत्रद्वयम् अपि पूरयेयुः । तत्र एकम् आवेदनापत्रं विश्वविद्यालये प्रवेशार्थम्,अपरं च प्रवेशपरीक्षार्थम् |

Note: Applicants desirous of applying for the 5-year Integrated Masters program are required to complete two application forms. The first is for admission into Chinmaya Vishwavidyapeeth and the second, is for the Entrance Examination.

The ‘5 Year Integrated Master in Sanskrit – ‘Advaita Vedanta’ course is designed for students desirous of studying Advaita Vedanta in the traditional way. This school of Indian philosophy is based on three texts – the Upaniṣads, the Brahmasutras and the Bhagavad-gita. These are also called ‘Prasthanatrayi’.The commentaries of Sri Adi Sankaracharya on ‘Prasthanatrayi’ are a composite treatise for the study of Advaita, and therefore the curriculum covers all commentaries of Sri Adi Sankaracharya. To understand the concepts of Advaita-vedanta one should also be familiar with the concepts of other philosophies such as Nyaya and Samkhya. Hence, the Integrated Masters course for Advaita Vedānta will also include important concepts of these schools.This course has been designed to include the best and important aspects of the most prominent traditions of Indian philosophy.

इह खलु नामरूपकर्मात्मके  भोक्तृभोग्यलक्षणे सुखदु:खमोहस्वभावे संसारार्णवे निमग्नान् जनान् समुद्दिधीर्षु: स्वयं भगवान् श्रीशङ्कर: शङ्कराचार्यरूपेणावतीर्य श्रुतिशिखाभूतमहावाक्यप्रतिपाद्यात्मस्वरूपरूपार्थनिर्णयार्थं श्रुतिस्मृतिन्यायाख्येषु त्रिष्वपि प्रस्थानेषु भाष्यग्रन्थान् विरचय्य उपक्रमोपसंहारादिभि: षड्भिस्तात्पर्यलिङ्गै: नित्यशुद्धबुद्धमुक्तस्वभावेऽद्वितीयब्रह्ममात्रे सर्वासामुपनिषदां तात्पर्यमवदधार। भगवत्पादप्रणीता एत एव भाष्यग्रन्था अद्वैतवेदान्तशास्त्रस्य प्रमाणभूता: ग्रन्था: सन्ति। तेषाञ्च भाष्यग्रन्थानामतिगभीरतात्पर्यवत्वात् साक्षात्प्रवेष्टुमशक्यत्वेन तत्र प्रवेशसामर्थ्यसम्पादनाय सामान्यतो वेदान्तशास्त्रीयविषयाणामवबोधाय वेदान्तसार-वेदान्तपरिभाषाख्यौ द्वौ प्रकरणग्रन्थौ पाठ्यक्रमस्य आदौ विनियोजितौ, किञ्च काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकमित्युक्त्या  व्याकरणादिशास्त्राणामखिलशास्त्रोपकारकत्वादवश्य-मध्येतव्यतया तेषामपि शास्त्राणमतिविस्तृतत्वेन सर्वांशेनात्र योजयितुमशक्यतया सिद्धान्तकौमुदीस्था: केचनांशा: अत्र पाठ्यक्रमे विनियोजिता:, अथ च वेदान्तशास्त्रीयवादग्रन्थेषु प्रवेशाय च अवश्यापेक्षितानां शास्त्रान्तरीयविषयाणां परिचायाय तर्कसंग्रहदीपिका-मीमांसान्यायप्रकाशाख्ययोः ग्रन्थयोरप्यत्र विनिवेशः कृतः । वेदान्तदर्शनस्य अभियुक्तैर्वणिते प्रस्थानत्रयेऽन्यतमं  प्रस्थानं  वर्तते  स्मृतिप्रस्थानम्। तच्च स्मृतिप्रस्थानं भागवगीता वर्तते। अस्योपरि श्रीमद्भगवत्पादशङ्कराचार्याणां भाष्यं समस्तवेदान्तार्थावबोधकं राराजते दर्शनजगति। आनन्दगिर्याचार्यैस्तु ग्रन्थोऽयं त्रिषु काण्डेषु विभक्त:। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोतिमध्यमकाण्डं तत्पदार्थं विषयीकरोतिअन्तिमषट्कं तु पदार्थयोरैक्यं वाक्यार्थमधिकरोति। अस्मिन् पाठ्यक्रमे त्रिषु सत्रेषु विभज्य अयं ग्रन्थपाठयिष्यतेतत्र प्रथमवर्षस्य द्वितीये सत्रे प्रथमषट्कस्यार्धभाग एव पाठ्यत्वेन निर्धारित:, तृतीये सत्रे चतुर्थाध्यायादारभ्य मध्यमषट्कपर्यन्तो भागपञ्चमसत्रे च अन्तिमषट्कं पाठ्यत्वेन निर्धारितं वर्तते। तदनु पञ्चदशीग्रन्थस्य प्रथमद्वितीयषष्ठप्रकरणानि अत्र पाठ्यत्वेन स्वीकृतानि सन्ति। ततपरमुपनिषदां भाष्यग्रन्थाब्रह्मसूत्रभाष्यञ्च  विभज्य पाठ्यक्रमस्याङ्गत्वेन स्वीकृतं वर्तते। उपनिषत्सु विशेषतछान्दोग्योपनिषदषष्ठसप्तमाष्टमाध्यायाबृहदारण्यकोपनिषदश्चतुर्थाध्यायश्च पाठ्यक्रमे विनियोजिता:। भाष्यग्रन्थेषु विद्यमाना: भगवत्पादश्रीमन्मुखाम्बुजनिर्गता: सूक्ती: समाश्रित्य तत्तदद्वैतदर्शनाचार्यैः यथासंस्कारं यथाश्रुतं च निजनिजव्युत्पत्त्यनुसारेण एतद्दर्शनीयतत्त्वबोधोपयोगितया कल्पितानां प्रक्रियाणां संग्रहात्मकः श्रीमदप्पयदीक्षितेन्द्रविरचितः शास्त्रसिद्धान्तलेशसंग्रहाख्यो ग्रन्थोऽपि यथायथं विभज्य पाठ्यक्रमस्यास्याङ्गत्वेन स्वीकृतः, यस्याध्ययनेन प्रायः समेषामपि अद्वैतदर्शनाचार्याणां मतं सुविदितं भवति । अतः परम् अद्वैतवेदान्तसिद्धान्ते द्वैतिभिः प्रदर्शितान् दोषाभासान् निराकर्तुं यतिश्रेष्ठैः आचार्यैः श्रीमधुसूदनसरस्वतीचरणैः विरचितः अद्वैतसिद्धिग्रन्थः प्रतिकर्मव्यवस्थापरिच्छेदान्त: पाठ्यक्रमेऽस्मिन् अङ्गीकृतः । ब्रह्मसूत्रशाङ्करभाष्यस्य सर्वतन्त्रस्वतन्त्र-श्रीवाचस्पतिमिश्रैर्विरचिता भामतीत्याख्या व्याख्या समन्वयाधिकरणान्ता विभज्य चरमसत्रद्वये  पाठ्यग्रन्थत्वेन स्वीकृता ।

अयं च पाठ्यक्रमः सम्प्रदायानुसारम् अद्वैतवेदान्तमधिगन्तुकामान्,विशेषेण शोधादिकार्येष्वपि दत्तश्रद्धान् छात्रान् समुद्दिश्य भारतदेशे अन्यासु संस्थासु अद्वैतवेदान्तशास्त्रपाठ्यक्रमविषये आश्रितां पद्धतिं परिशील्य च विनिर्मितः । इत्थमेते ग्रन्थाः अत्र पाठ्यक्रमे विनियोजिताः । एतेषां ग्रन्थानां सम्यगध्ययनं छात्राणां नूनं विशिष्टां व्युत्पत्तिं सम्पादयिष्यति यया ते छात्राः अन्यान् ग्रन्थान् स्वयमध्येतुम् अध्यापयितुं च प्रभवेयुः ।

ततः छात्राणां संवहनगणकयन्त्रप्रयोगादिकौशलवर्धनाय अन्ये च विषयाः कल्पिताः ।

Semester-wise Courses –

2018-23 Acharya Advaita Vedanta
Semester 1Semester 2
Course TypeCourse TitleCourse TypeCourse Title
Foundationसंस्कृतभाषा – १ (रघुवंशम् – द्वितीयः सर्गः)Foundationसंस्कृतभाषा – २ (चम्पूरामायणम् – बालकाण्डः)
ProficiencyEnglish – 1/ Hindi- 2ProficiencyEnglish – 2 (Business Communication) / Hindi- 2
Coreवेदान्तसार: (सम्पूर्णम्)ProficiencyEnglish – 3 (Communication Lab) / Hindi- 3
Foundationव्याकरणप्रवेशः (सन्धिः, कारकम्, समासः, प्रक्रियापरिचयः)Coreगीताभाष्यम् – (तृतीयाध्यायपर्यन्तम्)
Foundationतर्कसङ्ग्रहदीपिका -1(प्रत्यक्षखण्डान्तो भागः)Coreवेदान्तपरिभाषा – (आगमपरिच्छेदान्ता)
Self-ImmersionYoga and MeditationFoundationतर्कसङ्ग्रहदीपिका -२ (अनुमानखण्डादारभ्यान्तम्)
Semester 3Semester 4
Course TypeCourse TitleCourse TypeCourse Title
FoundationComputing Lab (1)Proficiencyसंस्कृतभाषा – 3 (वेणीसंहारम् – १, २, ३ अङ्काः)
ProficiencyComputing for Business & SocietyCoreगीताभाष्यम् – 3(चरमषट्कम्)
Coreगीताभाष्यम्-2(चतुर्थाध्यायान्मध्यमषट्कान्तम्)Coreपञ्चदशी (प्रथमद्वितीयषष्ठप्रकरणानि)
FoundationIndic Knowledge Systems – 1Self-ImmersionIntroduction to Seva
Coreवेदान्तपरिभाषा – 2(अर्थापत्तिपरिच्छेदादारभ्यान्तम्)FoundationIndian Knowledge Systems – 2
Coreसांख्यकारिका + योगसूत्रम् (भोजवृत्तिसहितम्)Coreमीमांसान्यायप्रकाश : -1(समाख्यानिरूपणान्तः)
Semester 5Semester 6
Course TypeCourse TitleCourse TypeCourse Title
ProficiencyEnglish – 4 (Communication Lab) / Hindi- 4Coreमाण्डूक्योपनिषद् सगौडपादीयकारिका सभाष्या
Coreईशकेनकठोपनिषद: सभाष्या:Coreतैत्तिरीयोपनिषत् सभाष्या
Coreप्रश्नमुण्डक-ऐतरेयोपनिषद: सभाष्या:Coreसिद्धान्तलेशसङ्ग्रह: -२ (प्रथमपरिच्छेदस्य शेष: द्वितीयपरिच्छेदश्च)
Coreसिद्धान्तलेशसंग्रहः – १(प्रथमपरिच्छेदे अहंकाराद्यनुसंधानविचारः)ProficiencyBusiness, Government and Society
Coreमीमांसान्यायप्रकाश: -२ (अवशिष्टो भागः)  
Semester 7Semester 8
Course TypeCourse TitleCourse TypeCourse Title
Coreछान्दोग्योपनिषद: षष्ठसप्तमाष्टमाध्याया: सभाष्या:Coreबृहदारण्यकोपनिषद् सभाष्या
Coreब्रह्मसूत्रभाष्यम् – १ (चतुःसूत्री)Coreब्रह्मसूत्रभाष्यम् – ३(द्वितीयोSध्याय:)
Coreसिद्धान्तलेशसंग्रहः – ३ तृतीयचतुर्थौ परिच्छेदौCoreअद्वैतसिद्धि:- १ सोपाधिकत्वभङ्ग:
Coreब्रह्मसूत्रभाष्यम् -२ (ईक्षत्यधिकरणप्रभृति-प्रथमाध्यायस्य चरमपादान्तम्)Coreपञ्चपादिकाविवरणम् (प्रथमवर्णकम्)
Semester 9Semester 10
Course TypeCourse TitleCourse TypeCourse Title
Coreभामती जिज्ञासाधिकरणान्ताCoreभामती जन्माद्यधिकरणादारभ्य समन्वयाधिकरणपर्यन्ता
Coreब्रह्मसूत्रभाष्यम् -४(तृतीयोSध्याय:)Coreब्रह्मसूत्रभाष्यम् -५ (चतुर्थोSध्याय:)
Coreअद्वैतसिद्धि: (प्रतिकर्मव्यवस्थापर्यन्ता)Coreअद्वैतसिद्धि: -लघुचन्द्रिका (प्रथममिथ्यात्वपर्यन्ता)
Coreअन्यवेदान्तदर्शनानां परिचयःCoreप्रबन्धलेखनम्


कणादन्यायमतयो: बालव्युत्पत्तिसिद्ध्यर्थं श्रीमदन्नम्भट्टविरचितस्य तर्कसङ्ग्रहस्यायं टीकाग्रन्थ: स्वयमाचार्यैरेव शिशुहिताय विनिर्मित:। ग्रन्थोऽयं सकलतन्त्रप्रवेशार्थमत्यन्तमुपकारक इति नाविदितं शास्त्राध्ययनाध्यापनरतानां जनानाम्। ग्रन्थोऽयं चतुर्षु खण्डेषु प्रविभक्त:।अस्मिन्  सत्रे प्रत्यक्षखण्डस्यैवाध्ययनं भविष्यति। अग्रिमसत्रे चावशिष्टभागस्य।ग्रन्थेऽस्मिन् प्रतिपादितानां विषयाणाम् अत्र समुल्लेख: क्रियते येषाञ्चाध्ययनं द्वयोरपि सत्रयो: भविष्यति।


तर्कसङ्ग्रहदीपिका -001.odt.pdfतर्कसङ्ग्रहदीपिका -001.odt.pdf

शास्त्राणाम् अर्थज्ञानाय संस्कृतभाषायाः ज्ञानमतीवावश्यकं वर्तते। संस्कृतभाषायाः ज्ञानं विना न केवलम् अर्थावगतौ क्लेशो जायते प्रत्युत अवगतस्य शास्त्रार्थस्य प्रतिपादनेऽपि क्लेशमनुभवन्ति छात्राः। तस्मादमुं क्लेशं वारयितुं अद्वैतवेदान्तस्य संयुताचार्यपाठ्यक्रमस्य प्रथमसत्रे एव संस्कृतसम्भाषकौशलं वर्धयितुम् इदं पत्रं नियोजितम्। एतत्पत्राध्ययनानन्तरं नूनं छात्राः संस्कृतं भाषितुम् अवगन्तुं च प्रभविष्यन्ति।


Sanskritsambhashanam (Bhashapraveshah).pdfSanskritsambhashanam (Bhashapraveshah).pdf