व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र अजन्तस्त्रीलिङ्गप्रकरणम्, अजन्तनपुंसकलिङ्गप्रकरणं, हलन्तपुंलिङ्गप्रकरणं, हलन्तस्त्रीलिङ्गप्रकरणं, हलन्तनपुंसकलिङ्गप्रकरणम्, अव्ययप्रकरणं च इत्येते भागाः अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Siddhaanta-kaumudee - 2.pdfSiddhaanta-kaumudee - 2.pdf

Prameyaśāstraṁ is one of the two branches of Bhāratīya Darśanaṁ. The other branch is called Pramāṇaśāstraṁ. Prameya means the objects which are known through valid knowledge. All the six systems of Indian Philosophy talks about creation of the Universe, accept certain types of padārthas and so on. Each Darśana discusses the true nature of Ātma, its relation to the Universe, nature of  Mokṣa and ways to attain Mokṣa.

In this course students are introduced to various types of Prameyas and their properties as discussed in Bhāratīya Darśanas.



व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र तद्धितप्रकरणं द्विरुक्तप्रकरणं चेति प्रकरणद्वयम् अध्याप्यते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।



Taddhita paricayah11111.pdfTaddhita paricayah11111.pdf

पाणिनीयव्याकरणस्य प्रधानमुद्देश्यम् अस्ति साधुशब्दानाम् अन्वाख्यानम् । तदेतत् पाणिनिः उपचतुस्सहस्रसूत्रैः गुम्फितेन अष्टाध्यायीगतप्रक्रियाविज्ञानेन प्रतिपादयति । साधुशब्दज्ञाने प्रक्रियायाः ज्ञानमत्यावश्यकम् । प्रक्रियाज्ञानादृते प्रयोगज्ञानमात्रं न किञ्चित् प्रयोगं जनयति । तदाह भगवान् भाष्यकारः – ज्ञानपूर्वके प्रयोगे धर्मः । सूत्राणां क्रमस्य वैज्ञानिकता पाणिनीयपरम्परायाः चिरस्थायित्वे मूलम् । अपि चोक्तम् आचार्याभिः पुष्पादीक्षितवार्याभिः -

 

पाणिनिः क्रम एवास्ति क्रम एव तपःफलम्

क्रमहानेः परा हानिः शाब्दिकस्य विद्यते

प्रकृतं संस्कृताध्ययनक्षेत्रे व्याकरणाध्ययनपरम्परायाः द्वौ पन्थानौ दृश्येते । एका परम्परा सा यत्र पाणिनिक्रममाश्रित्य सूत्राणां तदर्थानां च अध्ययनं क्रियते । अस्यां परम्परायाम् आदौ अष्टाध्यायी, ततः काशिकामहाभाष्यादीनामध्ययनं क्रियते ।

अन्या परम्परा अस्ति प्रक्रियाध्ययनपरम्परा । अस्यां परम्परायां बहवः विद्वांसः श्रममकुर्वन् बहून् ग्रन्थान् च व्यरीरचन् । येषु सिद्धान्तकौमुदी, पौष्पीप्रक्रिया प्रकृताध्ययनपरम्परायां उत्कर्षं‍ स्थानम् अलङ्कुरुतः । सिद्धान्तकौमुदी भाष्यगत-सिद्धान्तबोधनपुरस्सरं प्रक्रियां बोधयति । तस्माद् अस्य ग्रन्थस्य अध्ययने कालः अधिकः अपेक्ष्यते । संस्कृतज्ञः अल्पेन कालेन तिङन्तप्रक्रियाज्ञानं प्राप्नुयात् इति धिया पौष्पपद्धत्यनुसारिणी तिङन्तप्रक्रिया पाठ्यक्रमे संयोजिता । अनेन मार्गेण छात्रः षट्सु मासेषु तिङन्तप्रक्रियायां (सिद्धान्तकौमुद्याः तृतीयो भागः सम्पूर्णः अत्र पूरयिष्यते) सामर्थ्यं सम्पादयिष्यति ।