अस्मिन् पत्रे विद्यार्थिनः कालिदासप्रणीतस्य रघुवंशमहाकाव्यस्य द्वितीयं सर्गम् अधीयते । अत्रादौ अध्येतॄणाम् अनायासप्रवेशाय महाकाव्यलक्षणं कविकाव्यपरिचयः तद्वैशिष्ट्यम् इत्यादयः केचन मुख्यतमाः अंशाः प्रथमसर्गादिस्थाः दश श्लोकाश्च पाठ्यन्ते । अयं च काव्यभागः प्रतिपदं प्रकृतिप्रत्ययविवेकेन सन्धिसमासादिचिन्तनेन च सहितम् अध्याप्यते, यच्च छात्राणाम् अस्याः भाषायाः अधिगमे सौकर्यं जनयति । छन्दोऽलङ्कारादयः साहित्यशास्त्रीयविषया अपि यथाप्रसङ्गं प्रस्तूयन्ते ।

Sanskrit for Communication (1) (1).pdfSanskrit for Communication (1) (1).pdf