Offered by: School of Vedic Knowledge Systems

Specialization: Acharya Vyakarana

Duration: Five years (Ten Semesters)

Eligibility: Vyakarana

Campus: Chinmaya Eswar Gurukula

सूचना – प्रवेशम् इच्छन्तः छात्राः अधः दत्तम् आवेदनापत्रद्वयम् अपि पूरयेयुः । तत्र एकम् आवेदनापत्रं विश्वविद्यालये प्रवेशार्थम्,अपरं च प्रवेशपरीक्षार्थम् |

Note: Applicants desirous of applying for the 5-year Integrated Masters program are required to complete two application forms. The first is for admission into Chinmaya Vishwavidyapeeth and the second, is for the Entrance Examination.

 

The ‘5 Year Integrated Masters’ in Vyakarana is aimed at training students thoroughly in Vyakarana Shastra. There are different traditions in India emphasizing different aspects of Vyakarana Sastra. This program is designed in such a way that the students have the benefit of the qualities of all the traditions. Here the study starts with memorizing Astadhyayi consisting of 4000 sutras, and continues with the important granthas at primary level and then advanced level such as siddhantakaumudi, kasikavrti, mahabhasya etc. There are a variety of courses designed to build language and communication skills, computer skills and other skills helping the student to become employable. Students, at the end of the course, will be able to continue the tradition by teaching, going for higher studies or engaging in high quality research in their respective areas.

सम्प्रदायानुसारेण व्याकरणशास्त्रमधिजिगांसूनां कृते एषः पाठ्यक्रमः परिकल्पितः । पाणिनीये वैदुष्यं प्रेप्सुभिः प्राधान्येन अवगन्तव्याः अंशाः सन्ति अष्टाध्याय्याः क्रमः, शब्दसिद्धिप्रक्रिया, सूत्राणां लक्ष्यसाधकत्वपरीक्षा, आर्थिकविचाराः  चेति । सम्प्रति भारतदेशे अनेकाः व्यकरणाध्य्यनपद्धतयो दरीदृश्यन्ते यत्र एतेषामंशनां क्वचित् कश्चिदाद्रियते । इहास्माभिः ताः पद्धतीरवलोक्य, तदीयैर्गुणैश्छात्राः यथा युज्येरन् तथायं पाठ्यक्रमः परिकल्पितः ।

तत्र सौत्रक्रमज्ञानाय व्याकरणाध्ययनप्राणभूतमष्टाध्याय्याः स्मरणमादौ क्रियते । ततः सूत्रार्थज्ञानं, लक्ष्ये तत्समन्वयं च साधयितुं सिद्धान्तकौमुदी अधीयते । सिद्धान्तकौमुद्याः अध्ययनावसरे मध्ये एव, पौष्पी तिङन्तप्रक्रियापद्धतिः बोध्यते, यया पाणिनीयप्रक्रियायाः स्वारस्ये ज्ञाते तिङन्तप्रकरणस्याध्ययने सौकर्यं कल्प्यते । ततः सूत्रार्थानामुपरि प्रौढविचारपरे द्वे व्याख्ये, प्रौढमनोरमा-लघुशब्देन्दुशेखराख्ये अध्याप्येते यत्र प्राधान्येन शब्दसिद्धिप्रक्रियायाः वैशद्येन विमर्शः इतरैः सहकारिभिर्विषयैः सह कृतः । एतेन शब्दसिद्धिप्रक्रियायां पाटवं छात्रा अवाप्नुयुः ।

तत उत्तरं महाभाष्यस्य आद्यानि नवाह्निकानि, समर्थाह्निकं, कारकाह्निकं च अध्याप्यन्ते । अत्र सूत्रस्य अतिव्याप्त्यव्याप्त्यादिविचाराः, प्रत्याख्यानानि, उपसंख्यानानि इति सर्वस्यास्य परिचयो भवति । अनेन शास्त्रस्य सर्वात्मना परीक्षणं भवति ।

ततः आर्थिकविषयाणां परिचयाय वैयाकरणभूषणसारः, लघुमञ्जूषायाः सुबर्थविचारात्मको भागश्च अध्याप्येते । एतन्मध्ये वाक्यपदीयमपि अध्याप्यते यत्र व्याकरणस्य आर्थिकभागस्य मूलभूता अंशा निरूपिताः ।

एतावता अधीतेन छात्राः प्रायेण व्याकरणविषयस्य कस्यापि ग्रन्थस्य अवलोकने अवगमने विमर्शे च सामर्थ्यमाप्नुवन्ति । एतावती अध्ययनपद्धतिः अन्याभिः सभाभिः संचाल्यमानासु परीक्षासु भागग्रहणे छात्राणां सामर्थ्यं भवेदिति धिया, काञ्ची-वेदवेदान्तशास्त्रसभया तेनलीनगर्यां संचाल्यमानां परीक्षापद्धतिं मनसि निधाय कल्पिता ।  व्याकरणाध्ययनस्य मुख्यमुद्देश्यं भवति शब्दानां साधुत्वपरीक्षा । सा च स्वस्य इतरेषां च प्रयोगेषु । सा च विना प्रामाणिकप्रयोगावलोकनं न शक्यते कर्तुमिति तदर्थं प्राचीनानामर्वाचीनानां च विदुषां प्रयोगपरिचयाय काव्यमप्यत्र अनिवार्यविषयतया निवेशितम् । एवं व्याकरणाध्ययने अपेक्षितस्य न्यायशास्त्रस्य परिचयाय दीपिकासहितः तर्कसंग्रहोऽपि पाठ्यक्रमे निवेशितः ।

ततः छात्राणां संवहनगणकयन्त्रप्रयोगादिकौशलवर्धनाय अन्ये च विषयाः निवेशिताः ।

प्रवेशार्हता – व्याकरणशास्त्रस्य अद्वैतवेदान्तशास्त्रस्य च अस्मिन् पाञ्चवार्षिके पाठ्यक्रमे प्रवेशमिच्छन्तः छात्राः संस्कृतभाषया संभाषणे, पठने, अवगमने च समर्थाः स्युः । साहित्यप्रवेशः, प्राक्शास्त्री, उत्तरमध्यमा इत्येतासु, प्राक्-शिरोमणिः एतत्समानासु अन्यासु वा परीक्षासु उत्तीर्णाः अत्र प्रवेशमर्हन्ति । एतेषां छात्राणां कृते प्रवेशपरीक्षा आयोजयिष्यते । तत्र उत्तीर्णानां विद्यार्थिनां विश्वविद्यालये प्रवेशः कल्प्यते । ये च द्वादशवर्गसमानासु अन्यासु परीक्षासु संस्कृतम् अनधीतवन्तः अत्र प्रवेशमिच्छन्ति तेषामपि प्रवेशपरीक्षायाम् अवकाशः विद्यते ।

Semester-wise Courses –

2018-23 Acharya Vyakarana
Semester 1Semester 2
Course TypeCourse TitleCourse TypeCourse Title
Foundationसंस्कृतभाषा – १ (रघुवंशम् – द्वितीयः सर्गः)Foundationसंस्कृतभाषा – २ (चम्पूरामायणम् – बालकाण्डः)
ProficiencyEnglish – 1/ Hindi- 2ProficiencyEnglish – 2 (Business Communication) / Hindi- 2
Coreअष्टाध्यायीधारणा – १ (१, २, ६/१, ६/४, ७, ८ अध्यायाः)ProficiencyEnglish – 3 (Communication Lab) / Hindi- 3
Foundationव्याकरणप्रवेशः (सन्धिः, कारकम्, समासः, प्रक्रियापरिचयः)Coreअष्टाध्यायीधारणा – २ (३, ४, ५, ६/२, ६/३ अध्यायाः)
Self-ImmersionYoga & MeditationCoreसिद्धान्तकौमुदी – १ (आदितः अजन्तपुंलिङ्गान्ता)
Semester 3Semester 4
Course TypeCourse TitleCourse TypeCourse Title
Foundationसंस्कृतभाषा-३ [तर्कसंग्रहदीपिका – १ (प्रत्यक्षखण्डान्तो भागः)]Proficiencyसंस्कृतभाषा – ४ (वेणीसंहारम् – १, २, ३ अङ्काः)
ProficiencyComputing Lab (1)Foundationतर्कसङ्ग्रहदीपिका -२ (अनुमानखण्डादारभ्यान्तम्)
ProficiencyComputing for Business & SocietyCoreसिद्धान्तकौमुदी – ३ (स्त्रीप्रत्ययप्रभृति समासाश्रयविध्यन्ता)
FoundationIndic Knowledge Systems – 1FoundationIndian Knowledge Systems – 2
Coreसिद्धान्तकौमुदी – २ (अजन्तस्त्रीलिङ्गप्रभृति अव्ययान्ता)Self-ImmersionIntroduction to Seva
Coreतिङन्तप्रक्रिया (पौष्पपद्धत्यनुसारिणी)  
Semester 5Semester 6
Course TypeCourse TitleCourse TypeCourse Title
ProficiencyEnglish – 4 (Communication Lab) / Hindi- 4Coreप्रौढमनोरमा – २ (अजन्तपुंलिङ्गान्ता, सशब्दरत्ना)
Coreकाशिका (प्रथमोऽध्यायः)Foundationसिद्धान्तकौमुदी – ६ (लकारार्थप्रभृति उत्तरकृदन्तपर्यन्ता)
Coreप्रौढमनोरमा – १ (आदितः पञ्चसन्ध्यन्ता, सश्ब्दरत्ना)Coreपरिभाषेन्दुशेखरः – १ (१ – २८)
Coreसिद्धान्तकौमुदी – ४ (तद्धितप्रकरणं द्विरुक्तप्रकरणं च)ProficiencyBusiness, Government and Society
Coreसिद्धान्तकौमुदी – ५ (दशगणीप्रभृति कर्मकर्तृतिङ्प्रकरणपर्यन्ता)  
Semester 7Semester 8
Course TypeCourse TitleCourse TypeCourse Title
Coreस्वरप्रक्रियाCoreलघुशब्देन्दुशेखरः – २ (पञ्चसन्धिप्रकरणम्)
Coreलघुशब्देन्दुशेखरः – १ (संज्ञापरिभाषाप्रकरणे)Coreप्रौढमनोरमा – ४ (स्त्रीप्रत्ययप्रभृति अव्ययीभावान्ता, सशब्दरत्ना)
Coreप्रौढमनोरमा – ३ (अजन्तस्त्रीलिङ्गप्रभृति अव्ययान्ता, सशब्दरत्ना)Coreमहाभाष्यम् – १ (१,२,३, अह्निकानि)
Coreपरिभाषेन्दुशेखरः – ३(शेषः)Coreमहाभाष्यम् – २ (४, ५ अह्निके)
Semester 9Semester 10
Course TypeCourse TitleCourse TypeCourse Title
Coreभाट्टरहस्यम् (प्रथमार्थविचारपर्यन्तम्)Coreव्युत्पत्तिवादः (भेदान्वयविचारपर्यन्तः)
Coreवाक्यपदीयम् (साधनसमुद्देशः)Coreमहाभाष्यम् – ४ (समर्थाह्निकम्)
Coreमहाभाष्यम् – ३ (६,७,८,९ आह्निकानि)Coreवैयाकरणसिद्धान्तलघुमञ्जूषा (आदितः तात्पर्यनिरूपणान्तो भागः)
Coreवैयाकरणभूषणसारः (धात्वर्थः, नामार्थः, लकारार्थः)Coreप्रबन्धलेखनम् + वाक्यार्थप्रस्तुतिः
Coreवाक्यार्थप्रस्तुतिः – १Coreवैयाकरणभूषणसारः – २ (शेषः)


सूचना – प्रवेशम् इच्छन्तः छात्राः अधः दत्तम् आवेदनापत्रद्वयम् अपि पूरयेयुः । तत्र एकम् आवेदनापत्रं विश्वविद्यालये प्रवेशार्थम्,अपरं च प्रवेशपरीक्षार्थम् ।

Note: Applicants desirous of applying for the 5-year Integrated Masters program are required to complete two application forms. The first is for admission into Chinmaya Vishwavidyapeeth and the second, is for the Entrance Examination.


व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै
अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति
। सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये
ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं
सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते
। भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन्
प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः
वरीवर्ति ।
अत्र प्रत्ययान्तधातुप्रकरणानि, नामधातुप्रकरणं, लकारार्थप्रकरणं, पूर्वकृदन्तप्रकरणम्
उत्तरकृदन्तप्रकरणम् च अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं
भविष्यति ।

पाणिनीयया प्रक्रियया साधुशब्दानां साधने विधिसूत्राणां प्रवृत्तिनियामिकाः परिभाषाः काश्चित्
पाणिनिना पठिताः सन्ति । ततोऽतिरिक्ताः अपि परिभाषाः काश्चित् पूर्वाचार्यैः पठिताः, काश्चित्
ज्ञापकसिद्धाः काश्चिच्च न्यायसिद्धाः अवश्यं शब्दसंस्कारकैराश्रयणीया भवन्ति याभिर्विना
साधुशब्दनिष्पादनं न सम्भवति । तसामेतासां परिभाषाणां संग्रहः परिभाषापाठनाम्ना
वैयाकरणनिकाये प्रसिद्धो वर्तते ।
एताः परिभाषाः नागेशभट्टेन परिभाषेन्दुशेखराख्ये स्वग्रन्थे विस्तरेण व्याख्याताः सन्ति । अत्र
एकैकस्या अपि परिभाषायाः अवतरणिकां निरूप्य ग्रन्थकारः विस्तरेण अर्थं निरूपयति । तत्र तत्र
ग्रन्थकारः सति मतभेदे कैयटादीनां मतमनूद्य निरस्य च स्वपक्षं स्थापनम् उपपत्तिभिः करोति ।
भाष्यसिद्धान्तानुसारं परिभाषाणां व्याख्या अत्र वर्तत इति हेतोः अयं ग्रन्थः वैयाकरणसम्प्रदायेषु
अत्यन्तमादृतो वर्तते ।
इहास्माभिः षष्ठात् सत्रादारभ्य अस्य ग्रन्थस्य अध्यापनं क्रियते । षष्ठे सत्रे तावत् आद्याः
अष्टाविंशतिः परिभाषाः शास्त्रत्वसम्पादनप्रकरणान्तर्गताः अध्याप्यन्ते ।