पाणिनीयैः सूत्रैः साधुशब्दानां निष्पत्तिं प्रदर्शयितुं, सूत्राणां सूत्र-वाक्य-भाष्यसम्मतमर्थं सिद्धान्तभूतं
प्रकाशयितुं च वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी नाम ग्रन्थो विरचितः ।
तत्र सूत्रार्थानाम् अतिसंक्षिप्ततया स्वसिद्धान्तस्य उपपत्तिं प्रदर्शयितुं तत्र भवता भट्टोजिदीक्षितेन
वैयाकरणसिद्धान्तकौमुद्याः प्रौढमनोरमा नाम स्वोपज्ञा व्याख्या प्रणीता । स्वनामानुसारम् प्रौढाया
अस्या व्याख्यायाः शब्दरत्नं नाम व्याख्यानं श्रीमता हरिदीक्षितेन प्राणायि । अस्मिन् ग्रन्थे तत्र तत्र
प्रौढमनोरमायाः अभिप्रायः विशदीकृतः, तत्र तत्र निरस्यते च । तदेवं व्याकरणे व्युत्पित्सूनां
ग्रन्थद्वयमिदम् अवश्याध्येतव्यमिति सर्वेषु मुख्येषु व्याकरणशास्त्रसम्प्रदायेषु सिद्धान्तकौमुद्याः परम्
अयं ग्रन्थोऽधीयते ।
अस्माभिरयं ग्रन्थः पञ्चमात् सत्रात् आरभ्य सप्तमसत्रपर्यन्तं पाठ्यक्रमे योजितः । षष्ठे सत्रे
अजन्तपुंलिङ्गप्रकरणभागः शब्दरत्नसहितः अध्याप्यते ।