पाणिनीयैः सूत्रैः साधुशब्दानां निष्पत्तिं प्रदर्शयितुं, सूत्राणां सूत्र-वाक्य-भाष्यसम्मतमर्थं सिद्धान्तभुतं प्रकाशयितुं च वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी नाम ग्रन्थो विरचितः । तत्र सूत्रार्थानाम् अतिसंक्षिप्ततया स्वसिद्धान्तस्य उपपत्तिं प्रदर्शयितुं तत्र भवता भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुद्याः प्रौढमनोरमा नाम स्वोपज्ञा व्याख्या प्रणीता । स्वनामानुसारम् प्रौढाया अस्या व्याख्यायाः शब्दरत्नं नाम व्याख्यानं श्रीमता हरिदीक्षितेन प्राणायि । अस्मिन् ग्रन्थे तत्र तत्र प्रौढमनोरमायाः अभिप्रायः विशदीकृतः, तत्र तत्र निरस्यते च । तदेवं व्याकरणे व्युत्पित्सूनां ग्रन्थद्वयमिदम् अवश्याध्येतव्यमिति सर्वेषु मुख्येषु व्याकरणशास्त्रसम्प्रदायेषु सिद्धान्तकौमुद्याः परम् अयं ग्रन्थोऽधीयते ।
अस्माभिरयं ग्रन्थः पञ्चमात् सत्रात् आरभ्य सप्तमसत्रपर्यन्तं पाठ्यक्रमे योजितः । पञ्चमे सत्रे संज्ञाप्रकरणात् प्रभृति पञ्चसन्ध्यन्तो भागः शब्दरत्नसहितः अध्याप्यते ।- Teacher: Jaya Krishna
व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।
अत्र तिङन्तप्रक्रिया अध्याप्यते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।
- Teacher: Jaya Krishna
व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।
अत्र तद्धितप्रकरणं द्विरुक्तप्रकरणं चेति प्रकरणद्वयम् अध्याप्यते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।- Teacher: Jaya Krishna
पाणिनिप्रणीतायाः अष्टाध्याय्याः सूत्रार्थप्रतिपादनपराः वृत्तिग्रन्थाः नैके समुपलभ्यन्ते । तेषु वामनजयादित्यप्रणीता ‘काशिकावृत्तिः’ सम्पूर्णा विस्तृता प्राचीना च । अत्र सूत्राणामर्थाः गौरवं विषह्यापि स्पष्टप्रतिपत्त्यर्थं विस्तरेण विवृताः सन्ति । तत्र अनुवृत्तानां, सूत्रोपात्तानाम् अध्याहृतानां च पदानामर्थाः सर्वे सुव्यक्तं दृश्यन्ते । यथासम्भवं सर्वेषामपि सूत्राणां उदाहरणानि प्रत्युदाहरणानि च ग्रन्थकृद्भ्यां प्रदर्शितानि । तथैव काश्चित् भाष्ये उक्ताः काश्चित् च अनुक्ताः इष्टयः, उपसंख्यानानि गणपाठः इत्येतत् सर्वं समुदितं सत् ग्रन्थस्यास्य वैशिष्ट्यं पुष्णाति । अपि भाष्यगताः विचारसंग्राहिकाः बह्व्यः कारिकाः अत्र ग्रन्थे समुद्धृताः सन्ति । अत एव वैयाकरणसिद्धान्तकौमुद्यादिषु ग्रन्थोत्तमेषु सत्स्वपि न तैरियं गतार्था इति उपादेयताऽस्य परिस्फुटा । अपि च अनेन क्रमेण अध्ययने पाणिनिना कल्पितानां प्रकरणानापि सुस्पष्टा प्रतिपत्तिर्भवतीति विद्वांसोऽभिप्रयन्ति ।
अस्माभिः पञ्चमे सत्रे काशिकायाः प्रथमोऽध्यायः पाठ्यतया निश्चितो वर्तते ।
- Teacher: Nagendra Pavana RN