‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥

इति काव्याभ्यासस्य फलं प्राचीना आमनन्ति । अव्यवहितमानन्दं जनयन्ति काव्यानि व्युत्पत्त्यर्थमपि उपादेयानीति सत्यम् । यद्यपि न सा काव्याभ्यासस्य प्रधानं फलं, तथापि आनुषङ्गिकं तत् भवत्येव । विशेषतः अद्यत्वे । न ह्यद्य संस्कृतभाषा व्यहारपथे स्थिता या व्यवहारमात्रेण उपासनीया स्यात् । सरसां वाणीं आस्वादयितुकामानाम् अवगन्तुकामानां च काव्यं विना नान्या गतिरस्ति ।

तत्रापि ‘काव्येषु नाटकं रम्यम्’ । व्यवहारपथे संस्कृतमानेतुकामानां च नाटकं महान्तमुपकारमातनोति । नाटकेषु भाषा प्रायेण सम्भाषणयोग्यैव भवतीति सा सुष्ठु अभ्यस्ता व्यावहारिकीं वाणीमपि सरसां कर्तुमलम् ।

तदेतत् सर्वं फलमुद्दिश्यास्माभिः चतुर्थे सत्रे पाठ्यभागेषु ‘वेणीसंहारम्’ नाम नाटकं निवेशितम् । नारायणभट्टेन विरचितमिदं वीररसप्रधानं विद्वद्भिः नाटकलक्षणनिरूपणावसरेषु भृशमुदाह्रियते । अत्र नाटकस्यास्य आद्या त्रयोऽङ्काः अध्याप्यन्ते ।

Saṃskṛta-bhāṣā - 3.pdfSaṃskṛta-bhāṣā - 3.pdf