कल्पतरुपरिमलादिमहाग्रन्थकर्तृभिश्श्रीमदप्पय्यदीक्षितेन्द्रैः विरचितं ग्रन्थरत्नमिदं विविधाचार्यमतसङ्ग्रहात्मकं वर्तते। अस्य वेदान्तप्रकरणग्रन्थस्य अध्ययनेन बहुविधाः प्रक्रियाः ज्ञायन्त इति ग्रन्थोऽयम् अद्वैतशास्त्रं व्युत्पित्सूनाङ्कृते अत्यन्तमुपकारको वर्तते। ग्रन्थस्य दीर्घकायत्वात् एकस्मिन् सत्रे सम्पूर्णमध्येतुमशक्यत्वेन सत्रत्रये विभज्य ग्रन्थोऽयम्पाठ्यक्रमे विनिवेशितः। अस्मिन् सत्रे तृतीयचतुर्थपरिच्छेदौ पाठ्यत्वेन निर्धारितौ वर्तेते।  

सिद्धान्तलेशसङ्ग्रहः -३.pdfसिद्धान्तलेशसङ्ग्रहः -३.pdf

उपनिषदां तात्पर्यार्थनिर्णयाय भगवता बादरायणेन ब्रह्मसूत्राणि विरचितानि तदुपरि विद्यामानं भगवत्पादानां शङ्कराचार्याणां शाङ्करभाष्यं चतुर्षु समन्वयाविरोधफलसाधनाख्येषु अध्यायेषु विभक्तः ग्रन्थः उपनिषत्तात्पर्यं प्रतिपित्सूनां कृते अतीवोपकारकम्। एतद्भाष्यं विना वस्तुतः सूत्राणामपि याथार्थ्यं ज्ञातुं न शक्यते इति विदुषां मतिः। तस्यैतस्य महतो ग्रन्थस्य चतुस्सूत्र्यनन्तरं प्रथमाध्यायपर्यन्तो भागः अस्मिन् सत्रे पाठ्यग्रन्थत्वेन निर्धारितो वर्तते।

ब्रह्मसूत्रभाष्यम् -२.pdfब्रह्मसूत्रभाष्यम् -२.pdf