पाणिनीयैः सूत्रैः साधुशब्दानां निष्पत्तिं प्रदर्शयितुं, सूत्राणां सूत्र-वाक्य-भाष्यसम्मतमर्थं सिद्धान्तभूतं प्रकाशयितुं च वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी नाम ग्रन्थो विरचितः । तत्र सूत्रार्थानाम् अतिसंक्षिप्ततया स्वसिद्धान्तस्य उपपत्तिं प्रदर्शयितुं तत्र भवता भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुद्याः प्रौढमनोरमा नाम स्वोपज्ञा व्याख्या प्रणीता । स्वनामानुसारम् प्रौढाया अस्या व्याख्यायाः शब्दरत्नं नाम व्याख्यानं श्रीमता हरिदीक्षितेन प्राणायि  । अस्मिन् ग्रन्थे तत्र तत्र प्रौढमनोरमायाः अभिप्रायः विशदीकृतः, तत्र तत्र निरस्यते च । तदेवं व्याकरणे व्युत्पित्सूनां ग्रन्थद्वयमिदम् अवश्याध्येतव्यमिति सर्वेषु मुख्येषु व्याकरणशास्त्रसम्प्रदायेषु सिद्धान्तकौमुद्याः परम् अयं ग्रन्थोऽधीयते ।

अस्माभिरयं ग्रन्थः पञ्चमात् सत्रात् आरभ्य सप्तमसत्रपर्यन्तं पाठ्यक्रमे योजितः । षष्ठे सत्रे अजन्तपुंलिङ्गप्रकरणभागः शब्दरत्नसहितः अध्याप्यते । 


Praudha-manorama - 2.docxPraudha-manorama - 2.docx

कृष्णयजुर्वेदस्य तैत्तिरीयशाखाया आरण्यके सप्तमोऽष्टमो नवमश्च प्रपाठकः तैत्तिरीयोपनिषदिति नाम्ना प्रसिद्धा वर्तते। तत्र सप्तमः प्रपाठकः शीक्षावल्लीति नाम्ना उच्यते। अष्टमः प्रपाठकः ब्रह्मावल्ली नवमः प्रपाठकः भृगुवल्ली इति नाम्ना उच्यते। तत्र शीक्षावल्ली सांहिती उपनिषद् अन्यवल्लीद्वयं वारुणी उपनिषदित्यप्युच्यते। अत्र सत्रे वल्लीत्रयमपि भगवत्पादविरचितभाष्यसमेतं पाठ्यत्वेन निर्धारितं वर्तते।

तैत्तिरीयोपनिषद् सभाष्या.pdfतैत्तिरीयोपनिषद् सभाष्या.pdf

कल्पतरुपरिमलादिमहाग्रन्थकर्तृभिश्श्रीमदप्पय्यदीक्षितेन्द्रैः विरचितं ग्रन्थरत्नमिदं विविधाचार्यमतसङ्ग्रहात्मकं वर्तते। अस्य वेदान्तप्रकरणग्रन्थस्य अध्ययनेन बहुविधाः प्रक्रियाः ज्ञायन्त इति ग्रन्थोऽयम् अद्वैतशास्त्रं व्युत्पित्सूनाङ्कृते अत्यन्तमुपकारको वर्तते। ग्रन्थस्य दीर्घकायत्वात् एकस्मिन् सत्रे सम्पूर्णमध्येतुमशक्यत्वेन सत्रत्रये विभज्य ग्रन्थोऽयम्पाठ्यक्रमे विनिवेशितः। अस्मिन् सत्रे प्रथमपरिच्छेदस्य अवशिष्टो भागः द्वितीयपरिछेदश्च सम्पूर्णः पाठ्यत्वेन निर्धारितो वर्तते।

सिद्धान्तलेशसङ्ग्रह-२.pdfसिद्धान्तलेशसङ्ग्रह-२.pdf