पाणिनीयया प्रक्रियया साधुशब्दानां साधने विधिसूत्राणां प्रवृत्तिनियामिकाः परिभाषाः काश्चित् पाणिनिना पठिताः सन्ति । ततोऽतिरिक्ताः अपि परिभाषाः काश्चित् पूर्वाचार्यैः पठिताः, काश्चित् ज्ञापकसिद्धाः काश्चिच्च न्यायसिद्धाः अवश्यं शब्दसंस्कारकैराश्रयणीया भवन्ति याभिर्विना साधुशब्दनिष्पादनं न सम्भवति । तसामेतासां परिभाषाणां संग्रहः परिभाषापाठनाम्ना वैयाकरणनिकाये प्रसिद्धो वर्तते ।

एताः परिभाषाः नागेशभट्टेन परिभाषेन्दुशेखराख्ये स्वग्रन्थे विस्तरेण व्याख्याताः सन्ति । अत्र एकैकस्या अपि परिभाषायाः अवतरणिकां निरूप्य ग्रन्थकारः विस्तरेण अर्थं निरूपयति । तत्र तत्र ग्रन्थकारः सति मतभेदे कैयटादीनां मतमनूद्य निरस्य च स्वपक्षस्थापनम् उपपत्तिभिः करोति । भाष्यसिद्धान्तानुसारं परिभाषाणां व्याख्या अत्र वर्तत इति हेतोः अयं ग्रन्थः वैयाकरणसम्प्रदायेषु अत्यन्तमादृतो वर्तते ।

इहास्माभिः षष्ठात् सत्रादारभ्य अस्य ग्रन्थस्य अध्यापनं क्रियते । षष्ठे सत्रे तावत् आद्याः अष्टाविंशतिः परिभाषाः बाधबीजप्रकरणान्तर्गताः अध्याप्यन्ते ।


Paribhashendu shekhara - 1.pdfParibhashendu shekhara - 1.pdf

व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र प्रत्ययान्तधातुप्रकरणानि, नामधातुप्रकरणं,  लकारार्थप्रकरणं, पूर्वकृदन्तप्रकरणम् उत्तरकृदन्तप्रकरणम् च अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Siddhantakoumudi-6 2019- CVV_CourseOutline VK118.pdfSiddhantakoumudi-6 2019- CVV_CourseOutline VK118.pdf

पाणिनीयैः सूत्रैः साधुशब्दानां निष्पत्तिं प्रदर्शयितुं, सूत्राणां सूत्र-वाक्य-भाष्यसम्मतमर्थं सिद्धान्तभूतं प्रकाशयितुं च वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी नाम ग्रन्थो विरचितः । तत्र सूत्रार्थानाम् अतिसंक्षिप्ततया स्वसिद्धान्तस्य उपपत्तिं प्रदर्शयितुं तत्र भवता भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुद्याः प्रौढमनोरमा नाम स्वोपज्ञा व्याख्या प्रणीता । स्वनामानुसारम् प्रौढाया अस्या व्याख्यायाः शब्दरत्नं नाम व्याख्यानं श्रीमता हरिदीक्षितेन प्राणायि  । अस्मिन् ग्रन्थे तत्र तत्र प्रौढमनोरमायाः अभिप्रायः विशदीकृतः, तत्र तत्र निरस्यते च । तदेवं व्याकरणे व्युत्पित्सूनां ग्रन्थद्वयमिदम् अवश्याध्येतव्यमिति सर्वेषु मुख्येषु व्याकरणशास्त्रसम्प्रदायेषु सिद्धान्तकौमुद्याः परम् अयं ग्रन्थोऽधीयते ।


Praudha-manorama - 2.docxPraudha-manorama - 2.docx