कणादन्यायमतयोः बालव्युत्पत्तिसिद्ध्यर्थं श्रीमदन्नभट्टविरचितस्य तर्कसङ्ग्रहस्य टीकाग्रन्थोSयं स्वयमाचार्यैरेव शिशुहिताय विनिर्मितः। ग्रन्थोSयं सकलतन्त्रप्रवेशार्थमत्यन्तमुपकारक इति नाविदितं शास्त्राध्ययनाध्यापनारतानां जनानाम्। ग्रन्थोSयं चतुर्षु खण्डेषु प्रविभक्तः। अस्मिन् सत्रे अनुमानखण्डतः समाप्तिपर्यन्तो भागोSध्यापयिष्यते।

तर्कसङ्ग्रहदीपिका ०२.odt.pdfतर्कसङ्ग्रहदीपिका ०२.odt.pdf