पाणिनीयैः सूत्रैः साधुशब्दानां निष्पत्तिं प्रदर्शयितुं, सूत्राणां सूत्र-वाक्य-भाष्यसम्मतमर्थं सिद्धान्तभुतं प्रकाशयितुं च वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी नाम ग्रन्थो विरचितः । तत्र सूत्रार्थानाम् अतिसंक्षिप्ततया स्वसिद्धान्तस्य उपपत्तिं प्रदर्शयितुं तत्र भवता भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुद्याः प्रौढमनोरमा नाम स्वोपज्ञा व्याख्या प्रणीता । स्वनामानुसारम् प्रौढाया अस्या व्याख्यायाः शब्दरत्नं नाम व्याख्यानं श्रीमता हरिदीक्षितेन प्राणायि  । अस्मिन् ग्रन्थे तत्र तत्र प्रौढमनोरमायाः अभिप्रायः विशदीकृतः, तत्र तत्र निरस्यते च । तदेवं व्याकरणे व्युत्पित्सूनां ग्रन्थद्वयमिदम् अवश्याध्येतव्यमिति सर्वेषु मुख्येषु व्याकरणशास्त्रसम्प्रदायेषु सिद्धान्तकौमुद्याः परम् अयं ग्रन्थोऽधीयते ।

अस्माभिरयं ग्रन्थः पञ्चमात् सत्रात् आरभ्य सप्तमसत्रपर्यन्तं पाठ्यक्रमे योजितः । पञ्चमे सत्रे संज्ञाप्रकरणात् प्रभृति पञ्चसन्ध्यन्तो भागः शब्दरत्नसहितः अध्याप्यते । 


Praudha-manorama - 1.docxPraudha-manorama - 1.docx

व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र तद्धितप्रकरणं द्विरुक्तप्रकरणं चेति प्रकरणद्वयम् अध्याप्यते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Sddhanta kaumudi - 4.pdfSddhanta kaumudi - 4.pdf