पाणिनिप्रणीतायाः अष्टाध्याय्याः सूत्रार्थप्रतिपादनपराः वृत्तिग्रन्थाः नैके समुपलभ्यन्ते । तेषु वामनजयादित्यप्रणीता ‘काशिकावृत्तिः’ सम्पूर्णा विस्तृता प्राचीना च । अत्र सूत्राणामर्थाः गौरवं विषह्यापि स्पष्टप्रतिपत्त्यर्थं विस्तरेण विवृताः सन्ति । तत्र अनुवृत्तानां, सूत्रोपात्तानाम् अध्याहृतानां च पदानामर्थाः सर्वे सुव्यक्तं दृश्यन्ते । यथासम्भवं सर्वेषामपि सूत्राणां उदाहरणानि प्रत्युदाहरणानि च ग्रन्थकृद्भ्यां प्रदर्शितानि । तथैव काश्चित् भाष्ये उक्ताः काश्चित् च अनुक्ताः इष्टयः, उपसंख्यानानि गणपाठः इत्येतत् सर्वं समुदितं सत् ग्रन्थस्यास्य वैशिष्ट्यं पुष्णाति । अपि भाष्यगताः विचारसंग्राहिकाः बह्व्यः कारिकाः अत्र ग्रन्थे समुद्धृताः सन्ति । अत एव वैयाकरणसिद्धान्तकौमुद्यादिषु ग्रन्थोत्तमेषु सत्स्वपि न तैरियं गतार्था इति उपादेयताऽस्य परिस्फुटा । अपि च अनेन क्रमेण अध्ययने पाणिनिना कल्पितानां प्रकरणानापि सुस्पष्टा प्रतिपत्तिर्भवतीति विद्वांसोऽभिप्रयन्ति ।



Kaashikaa.docxKaashikaa.docx

व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र प्रत्ययान्तधातुप्रकरणानि, नामधातुप्रकरणं,  लकारार्थप्रकरणं, पूर्वकृदन्तप्रकरणम् उत्तरकृदन्तप्रकरणम् च अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Siddhanta kaumudi - 6.pdfSiddhanta kaumudi - 6.pdf