अद्वैतवेदान्तशास्त्रीयसिद्धान्तानां परिचयार्थं बहवः प्रकरणग्रन्थाः तत्तदाचार्यैः विनिर्मिताः सन्ति। येषु श्रीमद्धर्मराजाध्वरीन्द्रविरचितः वेदान्तपरिभाषाख्यो ग्रन्थः, मधुसूदनसरस्वतीस्वामिपादैर्विरचितः सिद्धान्तबिन्द्वित्याख्यो ग्रन्थः, श्रीमदप्पयदीक्षितेन्द्रविरचितश्च सिद्धान्तलेशसङ्ग्रहाख्यो ग्रन्थः विशिष्टं स्थानं बिभ्रति।  अस्मिन् पाठ्यक्रमे प्रामाण्यवादं विहाय प्रायः सर्वोऽपि अवश्यं ज्ञातव्यांशः यथापेक्षं पाठ्यत्वेन स्थापितः अस्ति अधोलिखितानां विषयाणां यथायोग्यं पूर्वोक्तग्रन्थानाश्रित्य अध्ययनं भविष्यति।