वेदान्तदर्शनस्य अभियुक्तैर्वणिते प्रस्थानत्रयेऽन्यतमं  प्रस्थानं वर्तते स्मृतिप्रस्थानम्। तच्च स्मृतिप्रस्थानं भागवगीता वर्तते। इयञ्च गीता अर्जुनं निमित्तीकृत्य सर्वजनसमुद्धरणाय भगवतोपदिष्टा समस्तवेदार्थसारसङ्ग्रहभूताऽपि विशिष्यवेदान्तार्थप्रधाना वर्तते इति विविधप्रमाणवचनैरवगम्यते।अस्योपरि श्रीमद्भगवत्पादशङ्कराचार्याणां भाष्यं यथावत् वेदान्तार्थावबोधकं राराजते दर्शनजगति। आनन्दगिर्याचार्यैस्तु ग्रन्थोऽयं त्रिषु काण्डेषु विभक्त:। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति, मध्यमकाण्डं तत्पदार्थं विषयीकरोति, अन्तिमषट्कं तु पदार्थयोरैक्यं वाक्यार्थमधिकरोति। अत्र प्रथमवर्षस्य पाठ्यक्रमे द्वितीये सत्रे ग्रन्थस्य दीर्घकायत्वात् प्रथमषट्कस्यार्धभाग एव पाठ्यत्वेन    निर्धारित:।

श्रीमद्भगवद्गीता -१.doc (1).pdfश्रीमद्भगवद्गीता -१.doc (1).pdf

कणादन्यायमतयो: बालव्युत्पत्तिसिद्ध्यर्थं श्रीमदन्नम्भट्टविरचितस्य तर्कसङ्ग्रहस्यायं टीकाग्रन्थ: स्वयमाचार्यैरेव शिशुहिताय विनिर्मित:। ग्रन्थोऽयं सकलतन्त्रप्रवेशार्थमत्यन्तमुपकारक इति नाविदितं शास्त्राध्ययनाध्यापनरतानां जनानाम्। ग्रन्थोऽयं चतुर्षु खण्डेषु प्रविभक्त:। अस्मिन् सत्रे अनुमानखण्डत: समाप्तिपर्यन्तो भागोऽध्यापयिष्यते ।

तर्कसङ्ग्रहदीपिका ०२Course-outline.odt.pdfतर्कसङ्ग्रहदीपिका ०२Course-outline.odt.pdf