अद्वैतवेदान्तशास्त्रस्य नाना प्रकरणग्रन्थेषु अत्यन्तमुपादेयं श्रीविद्यारण्यस्वामिपादैर्विरचितं  पञ्चदशीत्याख्यं ग्रन्थरत्नं वर्तते। यद्यपि अस्य ग्रन्थस्य बृहत्कायत्वात् सर्वस्य ग्रन्थस्य पाठ्यक्रमेऽस्मिन्निवेशः कर्तुं न शक्यते तथापि कतिपयावश्यपठितव्यानां प्रकरणानामत्र पाठ्यक्रमे सन्निवेशः कृतः। तानि च प्रकरणानि – प्रथमं तत्त्वविवेकप्रकरणं, द्वितीयं पञ्चमहाभूतविवेकप्रकरणम् एवं षष्ठं चित्रदीपप्रकरणम्।

पञ्चदशी--प्रथमद्वितीयषष्ठप्रकरणानि.pdfपञ्चदशी--प्रथमद्वितीयषष्ठप्रकरणानि.pdf

 पूर्वमीमांसाशास्त्रीयप्रकरणग्रन्थेष्वन्यतमः मीमांसान्यायप्रकाशाख्यो ग्रन्थः मीमांसाशास्त्रे प्रवेशार्थम् अत्यन्तमुपकारको वर्तते। अद्वैतवेदान्तशास्त्रप्रतिपाद्यार्थानां ज्ञाने पूर्वमीमांसाशास्त्रप्रतिपाद्यानां पदार्थानां ज्ञानमत्यन्तमुपकरोतीति धिया अयं ग्रन्थः अत्र पाठ्यक्रमे स्थापितः। अस्य ग्रन्थस्य अध्ययनं सत्रद्वये सम्पत्स्यते। तत्र चतुर्थसत्रे समाख्यानिरूपणान्तो भागः पाठ्यत्वेन निर्धारितः।


मीमांसान्यायप्रकाशः – 1.docxमीमांसान्यायप्रकाशः – 1.docx