काव्याध्ययनं सदुपदेशादीनि नानाप्रयोजनानि प्रापयतीति विदितमेव विदाम् । रसानन्दस्तावदस्य परमं प्रयोजनम् तस्मात् तदिदं बहुमतं वर्तते अपि , काव्याध्ययनं भाषाज्ञानस्य द्वारम् यदि कश्चन काव्यभागः प्रतिपदं प्रकृतिप्रत्ययविवेकेन सन्धिसमासादिचिन्तनेन सहितम् अधीयेत तर्हि भाषा सम्यग् अधिगता भविष्यति अत एव शतश्लोकेन पण्डितः इत्युक्तिः प्रथतेतमाम् तस्मात् साम्प्रदायिकाध्ययनपद्धतौ कतिपयानां सत्काव्यानाम् अध्ययनतः पश्चाद् एव शास्त्रे प्रवेशं लभन्ते स्म छात्राः तदेतन्मनसि निधाय अस्मिन् शास्त्रपाठ्यक्रमे आदौ काव्यभागोऽयं निवेशितोऽस्ति

तथा विद्यार्थिनोऽत्र कालिदासप्रणीतस्य रघुवंशमहाकाव्यस्य द्वितीयं सर्गम् अध्येष्यन्ते अत्रादौ महाकाव्यलक्षणं कविकाव्यपरिचयः तद्वैशिष्ट्यम् इत्यादीन् मुख्यतमान् कांश्चन अंशान् उपवर्ण्य प्रथमसर्गादिस्थाः दश श्लोकाः पाठयिष्यन्ते, येन अस्यां कृतौ छात्राणां प्रवेशः अनायासलभ्यो भविष्यति । अत्र अध्यापनविधिः संस्कृतमाध्यमेन एव भविष्यति ।

संस्कृतभाषा - I.pdfसंस्कृतभाषा - I.pdf