व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति । अत्र अस्माकं पाठ्यक्रमे अयं ग्रन्थः द्वितीये सत्रे निवेशितः ।

अत्र संज्ञाप्रकरणम्, परिभाषाप्रकरणं, पञ्चसन्धिप्रकरणं अजन्तपुंलिङ्गप्रकरणं च इत्येते भागाः अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Siddhaanta-kaumudee - 1 - Course Outline.pdfSiddhaanta-kaumudee - 1 - Course Outline.pdf

साधुशब्दानां निर्वचनाय प्रवृत्तस्य व्याकरणस्य अध्ययने भगवतः पाणिनेः व्याकरणं सर्वमान्यं वर्तते भगवता पणिनिना अष्टाध्यायी नमके ग्रन्थे उपचतुस्सहस्रसूत्राणि गुम्फितानि अमीषां सूत्राणां सम्यग्ज्ञानं व्याकरणसमुद्रतारणे उडुपायते यदि अमूनि सूत्राणि कण्ठस्थानि स्युः तर्हि नूनं वैयाकरणः शब्दप्रपञ्चे जेष्यति तस्मात् व्याकरणस्य मूलभूतस्य ग्रन्थस्य परिचयः छात्राणां भवतु, ते सूत्राणि कण्ठस्थीकुर्वन्तु इति धिया इयं पाठ्यपरिकल्पना कृता

AD-2.pdfAD-2.pdf