बृहदारण्यकोपनिषद् दशसु प्रधानासूपनिषत्सु मध्ये विषिष्टं स्थानम् आवहति। तत्रापि अस्या उपनिषदः चतुर्थः अध्यायः सभाष्यम् अस्मिन् सत्रे पाठ्यग्रन्थभागत्वेन अस्मिन् पाठ्यक्रमे विनियोजितः। 



Brihadaranyakopanishad.docx.pdfBrihadaranyakopanishad.docx.pdf

दर्शनेषु सर्वेषु दर्शनीयतमं दर्शनं वेदान्तदर्शनम्। तदिदं साधनचतुष्टयसम्पन्नस्य परमपुरुषार्थं प्रेप्सतोऽधिकारिधौरेयस्यापेक्षितोपायमात्मसाक्षात्कारं सपरिकरं निरूपयितुं वेदान्तवाक्यविचारमुखेन प्रवृत्तं भगवता बादरायणेन प्रणीतम्। अत्र च महर्षिणा विरचितानि सूत्राणि औपनिषदब्रह्मस्वरूपप्रकाशकतया ब्रह्मसूत्राणीति शारीरस्य ब्रह्मभावसमर्पणपरतया शारीरकसूत्राणीति वेदान्तवाक्यविचारोपयोगिन्यायसङ्ग्राहकतया वेदान्तमीमांसाशास्त्रमिति चैवमादिभिरभिधानैर्व्यवह्रियन्ते विद्वद्भिः। तेषां च सूत्राणां यथावत् तात्पर्यस्फोरणाय श्रीसदाशिवावतारैः श्रीमद्भगवत्पादाचार्यैः प्रसन्नगम्भीरं श्रुतिस्मृतिन्यायकलापोपबृंहितं विद्वद्वरैरास्वाद्यं भाष्यं विरचितम्। अस्य भाष्यस्य सम्पूर्णः द्वितीयाध्यायः अस्मिन् सत्रे पाठ्यत्वेन निर्धारितो वर्तते।

Brahmasutram - 3.docx.pdfBrahmasutram - 3.docx.pdf