‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥‘

इति काव्याभ्यासस्य फलं प्राचीना आमनन्ति । अव्यवहितमानन्दं जनयन्ति काव्यानि व्युत्पत्त्यर्थमपि उपादेयानीति सत्यम् । यद्यपि न सा काव्याभ्यासस्य प्रधानं फलं, तथापि आनुषङ्गिकं तत् भवत्येव । विशेषतः अद्यत्वे । न ह्यद्य संस्कृतभाषा व्यहारपथे स्थिता या व्यवहारमात्रेण उपासनीया स्यात् । सरसां वाणीं आस्वादयितुकामानाम् अवगन्तुकामानां च काव्यं विना नान्या गतिरस्ति ।

तत्रापि ‘काव्येषु नाटकं रम्यम्’ । व्यवहारपथे संस्कृतमानेतुकामानां च नाटकं महान्तमुपकारमातनोति । नाटकेषु भाषा प्रायेण सम्भाषणयोग्यैव भवतीति सा सुष्ठु अभ्यस्ता व्यावहारिकीं वाणीमपि सरसां कर्तुमलम् ।

तदेतत् सर्वं फलमुद्दिश्यास्माभिः चतुर्थे सत्रे पाठ्यभागेषु ‘वेणीसंहारम्’ नाम नाटकं निवेशितम् । नारायणभट्टेन विरचितमिदं वीररसप्रधानं विद्वद्भिः नाटकलक्षणनिरूपणावसरेषु भृशमुदाह्रियते । अत्र नाटकस्यास्य आद्या त्रयोऽङ्काः अध्याप्यन्ते ।


Veṇīsaṃhāram.docxVeṇīsaṃhāram.docx

व्याकरणशास्त्रस्य प्रतिपाद्येषु अंशेषु शब्दसिद्धिप्रक्रिया प्रधानभूता वर्तते । एकस्य शब्दस्य सिद्ध्यै अष्टाध्याय्याः विभिन्नैभ्यः प्रदेशेभ्यः सूत्राणि आदाय तेषु तेषु प्रसङ्गेषु कार्याणि करणीयानि भवन्ति । सैषा दुर्गमा विविधशब्दसिद्धिप्रक्रिया वैयाकरणप्रवरेण भट्तोजिदीक्षितेन सिद्धान्तकौमुद्याख्ये ग्रन्थे सुगमतया बोधिता । अपि च बहुषु प्रदेशेषु सूत्रवार्तिकभाष्याणां मतेषु भेदे दृश्यमाने यथोचितं सर्वमतानुकूलः अन्यतममतानुकूलो वा पन्थाः अनुसरणीयो भवति यः अल्पमतिभिः ग्रहीतुं न शक्यते । भट्तोजिदीक्षितेन तादृशानि स्थलानि न्यक्षेण परिशील्य सिद्धान्तभूतः अर्थः स्वग्रन्थेऽस्मिन् प्रकाशितः । तस्मात् वैयाकरणप्रक्रियया साधुशब्दस्वरूपस्य निर्णये अयं ग्रन्थः नितरामुपकारकः वरीवर्ति ।

अत्र प्रत्ययान्तधातुप्रकरणानि, नामधातुप्रकरणं,  लकारार्थप्रकरणं, पूर्वकृदन्तप्रकरणम् उत्तरकृदन्तप्रकरणम् च अध्याप्यन्ते । तत्र उपकारकाणां व्याख्याभागानामपि यथोचितं बोधनं भविष्यति ।


Siddhantakoumudi-6 2019- CVV_CourseOutline VK853.pdfSiddhantakoumudi-6 2019- CVV_CourseOutline VK853.pdf

‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥‘

इति काव्याभ्यासस्य फलं प्राचीना आमनन्ति । अव्यवहितमानन्दं जनयन्ति काव्यानि व्युत्पत्त्यर्थमपि उपादेयानीति सत्यम् । यद्यपि न सा काव्याभ्यासस्य प्रधानं फलं, तथापि आनुषङ्गिकं तत् भवत्येव । विशेषतः अद्यत्वे । न ह्यद्य संस्कृतभाषा व्यहारपथे स्थिता या व्यवहारमात्रेण उपासनीया स्यात् । सरसां वाणीं आस्वादयितुकामानाम् अवगन्तुकामानां च काव्यं विना नान्या गतिरस्ति ।

तत्रापि ‘काव्येषु नाटकं रम्यम्’ । व्यवहारपथे संस्कृतमानेतुकामानां च नाटकं महान्तमुपकारमातनोति । नाटकेषु भाषा प्रायेण सम्भाषणयोग्यैव भवतीति सा सुष्ठु अभ्यस्ता व्यावहारिकीं वाणीमपि सरसां कर्तुमलम् ।

तदेतत् सर्वं फलमुद्दिश्यास्माभिः चतुर्थे सत्रे पाठ्यभागेषु ‘वेणीसंहारम्’ नाम नाटकं निवेशितम् । नारायणभट्टेन विरचितमिदं वीररसप्रधानं विद्वद्भिः नाटकलक्षणनिरूपणावसरेषु भृशमुदाह्रियते । अत्र नाटकस्यास्य आद्या त्रयोऽङ्काः अध्याप्यन्ते ।


Veṇīsaṃhāram.docxVeṇīsaṃhāram.docx

शास्त्रग्रन्थानामध्ययनाय संस्कृतभाषायाः विशिष्टं ज्ञानमपेक्षितं भवति । तत्र विविधानां शास्त्रीयविषयाणां बोधनाय प्रौढा सूक्ष्मार्था च भाषा आश्रिता भवति । तस्मात् तादृशभाषायाः अवगमनार्थं न केवलं स्थूलरूपेण पदार्थज्ञानं पर्यप्तं भवति, अपि तु पदेष्वपि विद्यमानाः धातुप्रातिपदिकप्रत्ययादिविभागाः अवश्यज्ञातव्याः भवन्ति । तत्र दृश्यमानेषु पदेषु विद्यमानानां धात्वादीनाम् अवयवानां ज्ञानाय व्याकरणप्रक्रियाया अपि स्थूलः परिचयः अपेक्षितः भवति । अयं परिचयः शास्रान्तराध्यायिनामिव व्याकरणछात्राणामपि महते उपयोगाय कल्पते । अत्र अधीत एव विषयः तैः उत्तरग्रन्थेषु विस्तरेण पश्चादध्येष्यते । एवं शास्त्रं प्रविविक्षूणां सर्वेषां छात्राणां प्रयोजनं मनसि निधाय अस्माभिः अयं पाठ्यक्रमः परिकल्पितः ।