कणादन्यायमतयो: बालव्युत्पत्तिसिद्ध्यर्थं श्रीमदन्नम्भट्टविरचितस्य तर्कसङ्ग्रहस्यायं टीकाग्रन्थ: स्वयमाचार्यैरेव शिशुहिताय विनिर्मित:। ग्रन्थोऽयं सकलतन्त्रप्रवेशार्थमत्यन्तमुपकारक इति नाविदितं शास्त्राध्ययनाध्यापनरतानां जनानाम्। ग्रन्थोऽयं चतुर्षु खण्डेषु प्रविभक्त:।तत्र प्रथमसत्रे प्रत्यक्षखण्डस्यैवाध्ययनं भविष्यति। द्वितियसत्रे चावशिष्टभागस्य।ग्रन्थेऽस्मिन् प्रतिपादितानां विषयाणाम् अत्र समुल्लेख: क्रियते येषाञ्चाध्ययनं द्वयोरपि सत्रयो: भविष्यति।



तर्कसङ्ग्रहदीपिका -001.odt.pdfतर्कसङ्ग्रहदीपिका -001.odt.pdf

अद्वैतवेदान्तस्य प्रकरण्ग्रन्थत्वेन प्रसिद्धो ग्रन्थोऽयं श्रीमत्परमहंसपरिव्राजकाचार्यसदानन्दै: प्रणीत:। अस्य ग्रन्थस्य प्रकरणग्रन्थत्वादेव सकलशास्त्रप्रतिपाद्यप्रमेयाप्रतिपादकत्वेऽप्यतिसङ्क्षेपेणाद्वैत-वेदान्तसिद्धान्तानां परिज्ञानार्थं ग्रन्थोऽयं विविधविश्वविद्यालयेषु  पाठ्यग्रन्थत्वेनाङ्गीकृत:। ग्रन्थेऽस्मिन्वेदान्त-स्वरूपविचारादारभ्य विदेहमुक्तिस्वरूपविचारपर्यन्तं विविधा: ज्ञातव्यांशा: प्रतिपादिता: सन्ति।



vedanta sarah.docx.pdfvedanta sarah.docx.pdf