एतस्मिन् पाठ्यक्रमे सिद्धान्तकौमुदीग्रन्थमाश्रित्य व्याकरणशास्त्रानुसारेण शब्दसिद्धिप्रक्रिया बोध्यते । तत्र प्राधान्येन एतेषां अंशानाम् ग्रहणे प्राधान्यं दीयते - सूत्रगतैः अनुवृत्तैः अध्याहृतैश्च पदैः सूत्रार्थबोधः, लक्ष्येषु यथोचितं सूत्राणां प्रवृत्तिः, ग्रन्थे प्रतिपादिताः इतरे विचाराश्च ।  संस्कृतभाषायाः परिचयं प्राप्तवन्तः अष्टाध्याय्याः निर्दिष्टान् भागान् धारणया गृहीतवन्तश्च छात्राः एतं विषयमध्येतुमर्हन्ति ।  

अत्र एतेषां प्रकरणानामध्ययनं भविष्यति - संज्ञाप्रकरणम्, परिभाषाप्रकरणम्, पञ्चसन्धिप्रकरणम्, अजन्तपुंलिङ्गप्रकरणम् ।

Siddhaanta-kaumudee - Course Outline.pdfSiddhaanta-kaumudee - Course Outline.pdf